||Sundarakanda ||

|| Sarga 60||( Slokas in Devanagari) )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ षष्टितमस्सर्गः॥

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत।
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः॥1||
समीपं गन्तुमस्माभी राघवस्य महात्मनः।

दृष्टादेवी न चाऽऽनीता इति तत्र निवेदनम्॥2||
अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः।

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे॥
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥3||

जित्वा लंकां सरक्षौघां हत्या तं रावणं रणे
सीतामादाय गछ्छामःसिद्धार्था हृष्टमानसा ॥4||

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।
किमन्यदत्रकर्तव्यं गृहीत्वा याम जानकीं॥5||

रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम्।
किंव्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्॥6||

वयमेव हि गत्वा तान् हत्वा राक्षसपुंगवान्।
राघवं द्रष्टुमर्हामः सुग्रीवं सह लक्ष्मणम्॥7||

तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥8||

नैषा बुद्धिर्महाबुद्धे यद्ब्रवीषु महाकपे।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्॥9||

नानेतुं कपिराजेन नैव रामेण धीमता।
कथंचिन्निर्जितां सीतां अस्माभिर्नाभिरोचयेत्॥10||

राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम्।
प्रतिज्ञाय स्वयं राजा सीता विजयमग्रतः॥11||

सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च॥
वृथा च दर्शितं वीर्यं भवेद्वानरपुंगवाः॥12||

तस्माद्गच्छाम वै सर्वे यत्र रामः स लक्ष्मणः।
सुग्रीवश्च महातेजाः कार्यस्य निवेदने॥13||

न तावदेषा मति रक्षमानो यथा भवान्पश्यति राजपुत्त्र।
यथा तु रामस्य मतिर्निविष्टा तथा भवान्पश्यतु कार्यसिद्धिम्॥14||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे षष्टितमस्सर्गः ॥

|| Om tat sat ||